वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ । स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥
veṣi hotram uta potraṁ janānām mandhātāsi draviṇodā ṛtāvā | svāhā vayaṁ kṛṇavāmā havīṁṣi devo devān yajatv agnir arhan ||
वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ । स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥ १०.२.२